49

विनायकचतुर्थीप्रश्नमालिका

“भगवतः विष्णोः इव गणेशस्यापि अवतारास्सन्ति। किन्तु स्वानुग्रहस्वभावेन न सः कदाचित् राक्षसान् हन्ति अपितु तेषां हृत्परिवर्तनं कारयित्वा तान् क्षाम्यति। मुद्गलपुराणे इमे अष्टावताराः सुशैल्या सङ्कलितास्सन्ति। प्रत्यवतारम् अस्मद्विशिष्टदोषापनयनाय वर्तते भवतु नाम सः विवेकनाशी अहङ्कारः अतृप्तिवती तृष्णा वा। जानीथात्र कः अवतारः कं दोषमपहरतीति। अस्मिन् गणेशचतुर्थ्यवसरे कथाः एताः अवलोकयाम।
चित्राणि प्रामुख्येण सङ्कष्टीचतुर्थीमण्डलं तथा अमरचित्रकथाः इत्येताभ्यां सङ्गृहीतानि। प्रश्नमालिकया अनया परीक्षस्व स्वज्ञानं गणेशस्य गभीरमनीषाविषयकम्।पञ्चभाग्यशालिनः नन्दिताकृष्णायाः सुरसमयं पुस्तकं Ganesha, The Auspicious, The Beginning इति प्राप्नुयुः।”

गणेशः मत्सरासुरं पराजितवान् यः अन्यशुभद्वेषभावं प्रकटयति। भगवतः अयम् अवतारः अरालतुण्डः इति नाम्नापि ज्ञायते यस्य वाहनं सिंहः वर्तते। अस्य वास्तविकं नाम किम्।

यः देवान् प्रचोदितवान् वक्रतुण्डः सहायतायै अभियाच्यः इति तस्य त्रीणि शिरांसि षट् हस्ताः चत्वारः शुनकाः एका च गौः वर्तते। कस्सः।

एकदन्तत्वेन गणेशः मदासुरं हतवान्। कं वैदिकं विचारं एकदन्तः निरूपयति।

सनत्कुमारोऽपि भूमाविद्यां नाम ब्रह्मविद्यां शिक्षयति कञ्चित् ऋषिम्। कस्स ऋषिः।

गणेशावतारः महोदरः तथा अनेन हतः मोहासुरः इति अनयोः आविर्भावः केनाभूत्।

गजाननत्वेन गणेशः कामं पराजितावान् अस्य राक्षसस्य नाम किम्।

भगवतः विष्णोः कं स्त्र्यवतारं शिवः कामयामास तथा तस्मात् अवतारात् क्रोधासुरस्य जन्म अभवत्। लम्बोदरत्वेन गणेशः तं राक्षसं जघान।

कामासुरः गणेशेन मयूरवाहनविकटत्वेन जितः। कामासुरः वृन्दा तथा कस्य संयोगेन समजायत।

विघ्नराजः ममासुरं न्ययन्त्रयामास। मम इति पदस्य कोर्थः भवेत्।

विघ्नराजस्य वाहनं रामायणे लक्ष्मणत्वेन महाभारते बलरामत्वेन च अवतरितो। कस्सः।

अभिमानासुरः अहङ्कारासुरो वेति असुरः गणेशेन धूम्रवर्णावतारकाले पराजितः। धूम्रः नाम किम्।

गजमुखासुरः गणशेन जितः तदा मुद्गलपुराणानुगुणं सः कस्मिन् परिवर्तितः।

Your score is

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In