अल्-बेरूनी गजनीनगरस्य महमूदस्य सेनया सह भारतम् आगतवान्। सः “तहकीक-ए-हिन्द” (भारतस्य अन्वेषणम्) इति प्रसिद्धं ग्रन्थम् अलिखत् यस्मिन् सः दीपावलीम् एवं वर्णयति —
“कार्तिकस्य प्रथमदिनम् अर्थात् अमावास्या यदा सूर्यः तुलाराशौ सञ्चरति तत् दीपावली इति उच्यते। तदा जनाः स्नान्ति उत्सववेषं धारयन्ति परस्परं पूगफलानि नागवल्लीदलानि च उपहाररूपेण यच्छन्ति दानं दातुं वाहनारूढाः देवालयान् गच्छन्ति मध्याह्नपर्यन्तं परस्परं सानन्दं क्रीडन्ति च। रात्रौ सर्वत्र बहून् दीपान् प्रज्वालयन्ति येन वायुः सर्वथा निर्मलः भवति।
अस्य उत्सवस्य कारणम् इदम् — वासुदेवस्य पत्नी लक्ष्मीः प्रतिवर्षम् अस्मिन् दिने सप्तमभूमौ बद्धं विरोचनपुत्रं बलिं मोचयति। अतः अयम् उत्सवः ‘बलिराज्यम्’ अर्थात् बलेः राज्यम् इति उच्यते।”
दीपावल्याः परेद्युः “बलिप्रतिपदा” इति अपि उच्यते। अद्य दीपावली यथा आचर्यते तेन सह अल्-बेरूनी-वर्णनम् अतीव समानम् इति अपि ध्यातव्यम्।