48

दीपावलीप्रश्नोत्तरम्

दीपावली सर्वान् स्पृशति। रामायणे सीतारामयो: वनवासत: अयोध्यायां पुनरागमनं दीपावली इति। सम्पूर्णे भारतवर्षे विविधरूपेण आचर्यन्ते | अत्र नानात्वं आश्चर्यकरम्। दीपावलीपर्वणा सम्बद्धान् कांश्चित् अल्पप्रसिद्धान् उत्सवान् अवलोकयाम।अस्माकं मुख्यं प्रमाणं सुविख्यातस्य पी. के. गोडे-महोदयस्य संशोधनकार्यम्। स: BORI स्थापनस्य प्रथम अभिरक्षक: आसीत् । पञ्च भाग्यशालिनः सहभागिनः अनुराधा-गोयल-महोदयायाः “ललितासहस्रनाम” इति सुन्दरं पुस्तकं लप्स्यन्ते। तत् पुस्तकं श्रीमातुः सहस्रनाम्नाम् अर्थं विवर्णयति।

दीपावली महोत्सवस्य प्रथम दिने धनत्रयोदशीदिवसे पूज्यः आयुर्वेदशास्त्रस्यसंस्थापकः इति मन्यते। स: क:।

उत्तरभारतीयेषु गृहेषु दीपावल्याः पूर्वस्यां रात्रौ अनिष्टनिवारणाय दक्षिणाभिमुखः मृण्मयः दीपः प्रज्वलितः स्थाप्यते। तस्य किं नाम।

नेपालदेशे दीपावलीपर्वणः द्वितीये दिने कः प्राणी पूज्यते।

भ्रातृद्वितीयायां (भाऊबीज / भाईदूज) कतमत् दिव्यं भ्रातृभगिनीयुगलं सम्मान्यते।

क्रिस्ताब्दस्य एकादशे शतके भारतम् आगतः विदेशीयः यात्री अल्-बेरूनी दीपावली दशावतारकथासु वर्णितस्य कस्यचित् पात्रस्य बन्धनमुक्त्या सम्बद्धा इति अलिखत्। सः कः आसीत्।

दीपावल्यां क्रियमाणं द्यूतं कयोश्चित् दिव्यदम्पत्योः अक्षक्रीडां स्मारयति। कौ तौ दम्पती?

दीपावल्यां तमिळसुहृदः यदा परस्परं “गङ्गास्नानम् आच्चा” । (गङ्गास्नानं कृतं किम्) इति पृच्छन्ति तदा तेषां कः अभिप्रायः।

गोवर्धनपूजा कस्य पूजनार्थं आचर्यते।

दीपावल्यां लक्ष्मीदेव्याः स्वागताय भूमौ रच्यमाना चित्रकला रङ्गवल्ली इति उच्यते। एतेषु नामसु किं नाम रङ्गवल्ल्याः पर्यायः न अस्ति‌।

दीपावल्याः परेद्युः नववर्षोत्सवस्य अङ्गभूते चोपडापूजने वणिक्समाजः किं पूजयति।

दीपावल्याः सायङ्काले भारतीयासु अंशविपणिषु क्रियमाणस्य प्रतीकरूपस्य होरामात्रस्य क्रयविक्रयसत्रस्य किं नाम‌।

दीपावल्याः अनन्तरं द्वितीये दिने पूज्यमानः जीवानां कर्मणां दिव्यः गणकः लेखकः च कः।

Your score is

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In