विनायकचतुर्थीप्रश्नमालिका
“भगवतः विष्णोः इव गणेशस्यापि अवतारास्सन्ति। किन्तु स्वानुग्रहस्वभावेन न सः कदाचित् राक्षसान् हन्ति अपितु तेषां हृत्परिवर्तनं कारयित्वा तान् क्षाम्यति। मुद्गलपुराणे इमे अष्टावताराः सुशैल्या सङ्कलितास्सन्ति। प्रत्यवतारम् अस्मद्विशिष्टदोषापनयनाय वर्तते भवतु नाम सः विवेकनाशी अहङ्कारः अतृप्तिवती तृष्णा वा। जानीथात्र कः अवतारः कं दोषमपहरतीति। अस्मिन् गणेशचतुर्थ्यवसरे कथाः एताः अवलोकयाम।
चित्राणि प्रामुख्येण सङ्कष्टीचतुर्थीमण्डलं तथा अमरचित्रकथाः इत्येताभ्यां सङ्गृहीतानि। प्रश्नमालिकया अनया परीक्षस्व स्वज्ञानं गणेशस्य गभीरमनीषाविषयकम्।पञ्चभाग्यशालिनः नन्दिताकृष्णायाः सुरसमयं पुस्तकं Ganesha, The Auspicious, The Beginning इति प्राप्नुयुः।”