9

भारतस्य भक्ति सन्ताः प्रश्नमञ्जूषा

अद्य बहुप्रिय भक्तिकवि कबीरस्य जयन्ती। भक्तिविचारस्य, ईश्वरभक्ते: च विचार: प्राचीनः अस्ति। ईशोपनिषद् गीता च भक्तिं स्तुवतः। भक्तिकाव्यस्य उत्पत्तिः सम्भवतः षष्ठशताब्द्यां तमिलप्रदेशे अभवत्, तत: समग्रभारते च प्रसृता । संस्कृतस्य एकः श्लोकः कथयति यत्, “उत्पन्ना द्रविडे साहं वृद्धिं कर्णाटके गता ।
क्वचित्क्वचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ॥
वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी ।
जाताहं युवती सम्यक्प्रेष्ठरूपा तु साम्प्रतम् ॥ ”
अस्मिन् १२ प्रश्नोत्तरे वयं भारतस्य भक्तिसन्तानाम् विषये ज्ञास्यामः। अस्य प्रश्नोत्तरस्य आधारः Andrew Schelling महोदयस्य उत्तमः भक्तिकाव्यसंकलनः अस्ति । पञ्च भाग्यशालिनः प्रश्नोत्तरकाः उपहाररूपेण बिबेक देब्रोय् महोदयस्य “Bhagavad Geeta for Millennials” इति नाम पुस्तकं प्राप्नुयुः।

तमिलनाडुत: ६ तः १० शताब्द्याः मध्ये वैष्णवपरम्परायां स्वस्य तीव्रभक्तिकाव्येन कः प्रसिद्ध: सन्तसमूहः मार्गं प्रज्वलितवन्त:?

अक्कमहादेवी १२ शताब्द्याः वीरशैवा साध्वी आसीत् । तस्याः अविमुख रूढिवादीविरोध ‘वचनाः’ अप्रतिमाः सन्ति । सा कस्याम् भाषायां लिखितवती ?

लाल देड् अथवा लल्ला १३०० तमे दशके निवसति स्म, सा हिन्दुभिः मुसलमानैः च स्वीकृत भक्तिसन्तेषु प्रथमा एका आसीत्। सा कुत्र निवसति स्म ?

धूर्जतिः १६ शताब्द्याः मध्यभागे तिरुपति समीपे श्री कालहस्ति मन्दिरस्य नाथं प्रति भक्त्या प्रसिद्धः साधुः आसीत् । अयं मन्दिरः कस्मै ईश्वराय समर्पितः अस्ति ?

एतेषु सन्तेषु कः महाराष्ट्रस्य प्रसिद्धे वरकारी सन्त परम्परायाम् न अस्ति ?

आखा भगतः अथवा आखोः सामाजिकाचारस्य आलोचनां कुर्वन् गुजरातीभाषायां प्रवदकाव्यान् रचितवान्। तस्य षड्पङ्क्तिकाव्यानि कानि उच्यन्ते ?

चक्षुहीन: साधुः सूरदासः तस्य कृष्णकाव्यानां माधुर्येण विश्रुतः अस्ति। सः कस्मिन् उत्तरभारतीयभाषायां रचितवान् ?

प्रधानमन्त्रिणा मोदी दलितचर्मकार्यसमुदायस्य अस्य भक्तिकवे: उद्धृत्य एतत् उक्तवान् यत् “नेतारस्य भूमिका स्वजनस्य आहारम् समत्वम् च सुनिश्चितं कर्तुं भवति।” कः अयं कविः ?

अकबरस्य राज्य सभायाम् केन नवरत्नेन भक्तिकाव्यं लिखितवन्तः यत् अद्यत्वे अपि हिन्दीभाषायाम् लोकप्रियं वर्तते?

ते ईश्वरस्य परिभ्रमणा: सन्ति – बङ्गदेशे परिव्राजक सन्गीतवादकाः ये ग्रामात् ग्रामम् गत्वा ईश्वरस्य स्तुतिं तथा जाति:, धर्मसम्स्कारान् च विरुद्धम् गायन्ति। ते के सन्ति ?

यदा कबीरस्य मृत्युः अभवत् तदा हिन्दवा: मुसलमाना: च अन्त्येष्टिसंस्कारस्य विषये युद्धं कृतवन्तः। यदा शवाच्छादनम् उत्थापितवन्तः तदा किम् प्राप्तवन्त: इति कथ्यते?

उत्तम भक्ति कविता: रचनार्तम् भानुसिंह: इति चद्मनामम् क: महान् बन्गाल समाज सुधारक: आधुनिकवादि च स्वीक्रुतवान्?

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In