45

प्रश्नमञ्जरी – प्रधानोपनिषदः

उपनिषदः वेदान्ताः भवन्ति। ताः भारतीयदर्शनशास्त्रस्य स्रोतांसि सन्ति। गुरुशिष्यपरम्परायाः मूर्तरूपाः सन्ति ताः तथा निष्पत्त्यर्थः भवति उपनिषद्यते प्राप्यते ब्रह्म-विद्या (गुरोः) अनया इति उपनिषद्। प्रधानोपनिषदः सन्ति १० १३ वा। एताः ताः सन्ति याः श्रेष्ठैः गुरुभिः व्याख्याताः यथा शङ्कराचार्यः रामानुजाचार्यश्च।
अस्यां प्रश्नमञ्जर्यां पश्यामो वयं यत् कथं प्रधानोपनिषद्भिः जगतः वास्तविकता विव्रियते (ब्रह्म सत्यं जगन्मिथ्या)। प्रश्नक्रमः प्रधानोपनिषदां पारम्परिकं क्रमं सूचयति यद्यपि अन्तिमे द्वे पुरातनतमे स्तः।
अस्मत्प्रश्नमञ्जरी उपनिषद्विदुष्याः श्रीमत्याः कुलकर्णीनामकोपाख्यायाः गीतावर्यायाः दर्शनशास्त्रस्नातकोत्तरशोधप्रबन्धम् अन्यग्रन्थान् च आधारिता अस्ति। तां प्रति अस्मत्कृतज्ञता निवेद्यते। अस्मिन् ज्ञानसागरे वयम् अल्पाभ्यस्ताः स्मः अतः सर्वे दोषाः अस्माकमेव स्युः।

Maniam Selvan Picture – Guru Sishya tradition in the background of Dakshnimoorthy

ईशोपनिषद् शिक्षयति अस्मान् यत् यदि मनोवृत्तिः सम्यक् स्यात् तदा कर्मफलं न अस्मान् लिम्पति। कः अन्यः ग्रन्थः इदं पाठयति।

जिज्ञासापूर्णः प्रथमः श्लोकः केनोपनिषदे तस्याः नाम ददाति। केन इति शब्दस्य कः अर्थः।

किमुदाहरणं कठोपनिषद् इन्द्रियाणां मनसः बुद्धेः आत्मनः च परस्परसम्बन्धं कथयितुं सङ्गृह्णाति।

प्रश्नोपनिषद् कस्य चिह्नस्य महत्त्वं सुप्रतिष्ठापयति यस्य गानं हिन्दुधार्मिकानुष्ठानानाम् आधारः अस्ति।

अस्माकं गणतन्त्रस्य राष्ट्रीयध्येयवाक्यं मुण्डकोपनिषदः अस्ति। किं तत्।

माण्डूक्योपनिषद् प्रतिबोधं स्वप्नदर्शनं गाढनिद्रां च विहाय काञ्चित् चतुर्थीम् अवस्थां ब्रह्मत्वम् अवगन्तुं निर्वर्णयति।
का सा अवस्था।

तैत्तिरीयोपनिषदनुसारेण मनुष्यव्यक्तित्त्वं कति कोशान् आदधाति।

ऐतरेयोपनिषद् कदाचित् _______ द्वारा रचितग्रन्थः उच्यते ग्रन्थकर्तुः पृष्ठभूमिम् अनुवदन्। कः अस्ति ग्रन्थकर्ता।

छान्दोग्योपनिषदि ऋषिः हारिद्रुमतगौतमः कस्य पुत्रं स्वशिष्यत्वेन स्वीकरोति।

बृहदारण्यकोपनिषद् एतत् न एतत् न इति विप्रतिषेधं ब्रह्मतत्वं मनुजव्याख्यया न अवगन्तुं शक्यते इति बोधयितुम् उपयुनक्ति । अयं प्रसिद्धः वादः कैः शब्दैः ज्ञायते।

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In