त्रिपदैः विष्णुः सर्वं समग्रहीदिति ऋग्वेदे वर्णितम्।
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा निद॑धे प॒दम्। समू॑ळ्हमस्य पांसु॒रे॥ ऋग्वेदे १.२२.१७
अयं विष्णुः सर्वत्र पर्यभ्रमत् त्रिवारं च पदं निदधे। अस्य पादरेणुषु सर्वं सञ्चितम्। इति शब्दार्थः।
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः। अतो॒ धर्मा॑णि धा॒रय॑न्॥ ऋग्वेदे १.२२.१८
विष्णुः जगद्रक्षकः तस्य क्षतिं कोऽपि न कर्तुं शक्नोति। सर्वान् धर्मान् स्वीकृत्य चकार त्रिपादपरिक्रमम् | इति शब्दार्थः।
इदमेव वामनावतारस्य बीजम्। अन्येषु वेदेषु उपनिषत्सु च विभिन्नप्रकारेण वामनावतारस्य उल्लेखः वर्तते।
वामनावतारस्य पूर्णा कथा महाभारते वामनपुराणे अन्येषु च पुराणेषु कथ्यते। वामनपुराणे विष्णोः अन्याः कथाः वर्तन्ते यत्र विष्णुः खर्वरूपेण अवतीर्य असुरप्रधानधुन्धोः त्रीणि पदानि याचते।
वामनपुराणस्य अल्पः भाग एव वामनावतारः। असाववतारः वामनपुराणे द्विवारं कथ्यते।
महर्षेः पतञ्जलेः महाभाष्ये अपि एषः अवतारः वर्ण्यते।
Picture Credit: Vamana Temple at Thirikkakkara, Kerala, Wikimedia Commons