महाभारते नरकासुरः प्राग्ज्योतिषपुरस्य (प्राक्– पूर्व, ज्योतिष – विद्या, पुरम् – नगरम्) राजा इति वर्णितः अस्ति । केचन विद्वांसः एतस्य नगरस्य स्थानं वायव्यभारतमिति निर्णयन्ति परन्तु काश्मीरस्य प्रामाणिकेतिहासः राजतरङ्गिणी प्राग्ज्योतिषपुरं असम-देशे स्थापयति ।
अहोमानां (१३तमे क्रिस्ताब्दे) पूर्वं असमस्य त्रयः प्रमुखाः वंशाः नरकासुरवंशजाः इति अभ्यर्थयन्ते । ते त्रयः वर्माणः (३५० क्रिस्ताब्दतः ६५० क्रिस्ताब्दपर्यन्तम्) म्लेच्छाः अथवा सलास्तम्भाः (६५५ क्रिस्ताब्दतः ९०० क्रिस्ताब्दपर्यन्तम्), पालाः (९०० क्रिस्ताब्दतः ११०० क्रिस्ताब्दपर्यन्तम्) च। पश्चात् आहोमजनाः प्रायः ६०० वर्षाणि यावत् शासनं कृत्वा असमस्य वर्तमाननाम दत्तवन्तः । पुराणेषु अर्थशास्त्रे च असमदेशः अधिकतया कामरूपः इति उल्लिखितः अस्ति । प्राग्ज्योतिषपुरं वर्मणां प्रथमराजधानी इति पर्यशङ्कन्त यद्यपि एतत् सिद्धं न जातम्। कालान्तरे प्राग्ज्योतिषपुरः कामरूपः असमः च पर्यायाः अभवन् । विकिमीडियाप्रतिमा १८ शताब्द्याः नेपाली-पत्रस्य भागवतस्य अस्ति यस्मिन् नरकस्य प्राग्ज्योतिषस्य चित्रणं कृतम् अस्ति ।
स्रोत: निरोदे बरुआ, प्रागज्योतिषपुरम् – प्रारम्भिक असमस्य राजधानी नगरम्, जे.एस.टी.ओ.आर.