मुगलशासनस्य क्षयानन्तरं व्यापारकेन्द्रं सूरताद् बाम्बेनगरं(मुम्बापुरीं) प्रति ससार। फोर्ब्स् अण्ड् कम्पनी भारतदेशे प्रथमं ब्रिटेनदेशीयं संस्थापनमासीत्। भारतस्य व्यापारमुख्याः यथा जमशेट्जी-जीजाभॉय् प्रेमचन्द्-रायचन्द् यहूदजातीयाः सास्सूनाः च वर्धिताः। चीन-देशेन सह अफीमिति पदार्थस्य व्यापारे तथा कार्पासव्यापारे आकस्मिकवृद्धेः कारणात् बॉम्बेनगरं सुगमधनस्य प्रवाहेन पूरयामास। भूमेः पुनर्ग्रहणं वेगेन प्राचलत्। बहवः संस्थानस्वामिनः भूमेः पुनर्ग्रहणाय अनुज्ञां प्रापुः येन अंशापणे तेषाम् अंशानां मूल्यं अतिशयेन ववृधे। वित्तकोषाः अंशमूल्यस्य आधारेण संस्थानेभ्यः ऋणं ददुः।
किन्तु अमेरिकादेशे नागरयुद्धसमाप्तेः अनन्तरं कार्पासमूल्यं पपात। एतेन अंशमूल्यान्यपि अपतन्। वित्तकोषाः विनाशं प्रापुः। सस्सूनान् विहाय प्रायः सर्वे निगमाः धनच्युताः अभवन्।संकटादनन्तरं टाटा वाडिया बिर्ला गोडरेज् मफातलाल् इत्यादयः नवीनाः व्यवसायाः उदयं प्राप्नुवन्। विकिमिडियाचित्रं लण्डननगरस्थायां पत्रिकायां १८६५ तमे वर्षे बॉम्बेनगरे स्थितस्य अंशापणस्य चित्रणं दर्शयति।