समुद्रमन्थनकाले सैंहिकेयः राहुः देववेषं धृत्वा अमृतमपिबत्। सूर्यचन्द्रौ तं विज्ञाय विष्णवे सूचितवन्तौ। क्रुद्धः विष्णुः राहोः शिरश्छेदम् अकरोत्। किन्तु अमृतपानात् सः अमरः जातः, अतः छिन्नं शिरः ‘राहुः’ इति, अवशिष्टं शरीरं च ‘केतुः’ इति प्रसिद्धम् अभवत्। प्रतिशोधार्थं राहुकेतू समये समये सूर्यचन्द्रौ ग्रसितुं प्रयतेते, येन सूर्यचन्द्रग्रहणे भवतः।
नवग्रहसमूहे सूर्यः, चन्द्रः तथा बुधतः शनिपर्यन्तं पञ्च ग्रहाः अन्तर्भवन्ति, पृथिवीं विहाय।
राहुकेतू द्वौ ‘तमोग्रहौ’ अथवा ‘छायाग्रहौ’ स्तः। राहुः सूर्यचन्द्रयोः ग्रसनेन ग्रहणं कारयति। प्राचीनग्रन्थेषु केतुः ‘धूमकेतुः’, ‘उल्का’ इत्यपि वर्णितम् तेषां दीप्तिमतीः स्फुरणाः अशुभसूचकाः मन्यन्ते।
नवग्रहाणां साक्षात् प्रभावः मनुष्यजीवने भवति इति मन्यते। पञ्चमशताब्दीतः मन्दिरेषु तेषां मूर्तयः उत्कीर्णाः दृश्यन्ते।
स्रोतः: https://www.britannica.com/topic/navagraha
चित्रसौजन्यम्: भागवतकथा।