77

रामनवमीप्रश्नोत्तरम्

वाल्मीकेः आदिकाव्यमेव आदिमा रामकथास्ति। अस्य पुनः कथनं बहुभिः कृतमस्ति धर्मज्ञाननृत्यकाव्यादिभिः विभिन्नोद्देश्यैः। आगच्छत रामनवम्युत्सवावसरे प्राकृतसंस्कृतादिषु निबद्धाः रामकथाः अवलोकयाम। तदर्थं द्वयोः विदुषोः आश्रयः स्वीकृतः अस्माभिः।
Dr V Raghavan & Dr Camille Bulcke.

The pictures in this quiz are from Janakpur Nepal – Temples and Mithila style wall art.

क्व वाल्मीकिरामायणं पुनरुक्तमस्ति रामोपाख्यानमिति नाम्ना।

कालिदासमतेन वाल्मीकिरामायणं किं रसप्रधानमस्ति।

कालिदासात् प्राक् कः नाट्यकारः रामकथां नाट्यरूपेण प्रास्तौत्।

कस्यां प्राकृतभाषायां राजा प्रवरसेनः पञ्चमे ख्रिष्टाब्दे आदिमां संस्कृतभाषेतरां रामकथां लिलेख।

कुमारदासः पञ्चमाब्दीयः ख्रिष्टस्य जानकीहरणम् इति लिलेख संस्कृतेन। ग्रन्थ्नाम एव तञ्जन्मस्थानस्य ऊहां ददाति। किं स्यात्तत्।

के विषयाः प्रबोधिताः रामकथया शास्त्रकाव्ये।

अभिनन्दनः रामचरितम् अलिखत् नवमे ख्रिष्टाब्दे। लक्ष्मणमाता राज्ञी सुमित्रा पलशासितप्रदेशसम्बन्धिता आसीत्। कः सः प्रदेशः।

रामायणचम्प्वाः कर्ता एकः क्रीर्तिवान् राजकविः अस्ति एकादशीयः ख्रिष्टाब्दीयः मालवप्रदेशीयः कः सः।

अभिनवगुप्तस्य शिष्यः क्षेमेन्द्रः चतुर्वारं रामकथाम् अकथयत् एकादशीयख्रिष्टाब्दे। कस्य प्रदेशस्य आसीत् सः।

भवभूतिः उत्तररामचरिते सोमदेवश्च कथासरित्सागरे रामकथायाः उपसंहारं भिन्नप्रकारेण चक्रतुः। कथं तत्।

अध्यात्मरामायणं त्रयोदशात् पञ्चदशं ख्रिष्टाब्दं यावत् अन्येभ्यः गुरुतरा रामकथा वर्तते। रामायणमिदं रामभक्त्या सह किम् उच्चदर्शनं सञ्योजयति।

पञ्चदशात् ख्रिष्टाब्दात् अनन्तरवर्तनि कार्ये यथा अद्भुतरामायणे आनन्दरामायणे च कृष्णकथायाः कं पक्षं विरूपयेताम्।

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In