0

शिवरात्रिप्रश्नोत्तरम्

इयं IndiYatra इत्यस्य शततमी प्रश्नमालिका वर्तते। शिवकथाः विभिन्नप्रकारकाः सन्ति याः पौनः पुन्येन कथ्यन्ते। महाशिवरात्र्यवसरे अवलोकयामो वयं काश्चन प्रसिद्धकथाः अन्यदेवैस्साकं भक्तैः अरिभिः साकं वा घटिताः भगवतः शिवस्य। अपि च जानीयाम यत् जगतः सृष्टिस्थितिलयकारकः सन्नपि कथं सः कर्मभाग्यवशी भूत्वा साधारणमनुष्यः इव प्रवर्तते इति।

IndiYatra इत्यस्य विशिष्टोपलब्ध्यवसरे विंशतिः भाग्यवन्तः प्रतिभागिनः विक्रमसम्पत् वर्यस्य Waiting for Shiva इत्येतत् पुस्तकं लभेरन्।

लिङ्गोद्भवकथायां शिवलिङ्गस्य मूलम् अन्वेष्टुं श्रीविष्णुः कम् अवतारम् आधरति।

कङ्खल इति तत् स्थानं वर्तते यत्र देवी सती आत्मत्यागमकरोत् यया घटनया रुष्टः शिवः ताण्डवं चकार। कस्य तीर्थस्य पार्श्ववर्ति अस्ति कङ्खलनगरम्।

सः कः यः पुरा शिवेन दग्धः किन्तु पार्वत्या सह विवाहानन्तरं पुनः जीवनं दत्तं तस्मै।

शिवः अतिसामर्थ्यवत् पशुपत्यस्त्रं कस्मै प्रसिद्धाय योद्ध्रे द्वन्द्वानन्तरम् अददात्।

यः नटराजरूपिणः शिवस्य ताण्डवनर्तनेन परितुन्नः सः अपस्मारनामकः राक्षसः कं भावं व्यक्तीकरोति।

त्रिपुरान्तकः इति शिवस्य नाम वर्तते। सारथिः ब्रह्मा विष्णुश्च अस्त्रम् एताभ्यां सह शिवः त्रीणि नगराणि अनाशयत्। कः सः असुरः यः त्रयाणां नगराणां वरं प्राप।

स्वभक्तस्य बाणासुरस्य रक्षणाय शिवः केन स्वान्यपरमभक्तेन साकं युद्धं चकार।

शिवेन अपि ज्योतिषः अनुसारेण क्लेशमयः सार्धसप्तानां वर्षाणां कालः सोढव्यः आसीत्। कः देवः अस्य कालस्य अधिष्ठाता वर्तते।

शिवेन अविमुक्तस्य नगरं रक्षितं प्रलयात् त्रिशूले तन्नगरं संस्थाप्य। तत् पवित्रं नगरम् अद्य केन नाम्ना ज्ञायते।

पार्वती कञ्चित् रूपं स्व्यकरोत् यस्मिन्नेव आधारितं भवति जीवनम्। शिवः अवदत् यत् संसारः शक्तिं विनापि स्थातुं शक्नोतीति अतः पार्वत्या इदं रूपं स्वीकृतम्। किं रूपमिदम्।

अन्धकासुरः शिवपार्वत्योः पुत्रः आसीत्। अस्य पालकपिता विष्णोः वराहावतारेन हतः। कः आसीत् सः।

अल्पवयसि मरणनिश्चितस्य स्वभक्तस्य रक्षणाय शिवः कालान्तकः इति रूपं साक्षात् लिङ्गात् आविर्भूय स्व्यकरोत्। कः स भक्तः।

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In