39

अहिल्याबायी राज्ञ्याः रिक्थप्रदानम्।

अहल्याबायी होळकर त्रिशतवर्षेभ्यः पूर्वम् (आङ्ग्लदिनदर्शिकायाः अनुसारेण) मे मासस्य एकत्रिंशत्तमे दिनाङ्के अजायत। सा होळकरराजवंशस्य प्रायः 50 वर्षकालं राजमाता आसीत्। अपि सा भारतदेशस्य उत्तमा राज्ञी आसीत्। एतस्यां प्रश्नमञ्जूषायां वयं तस्याः जीवनम्, विजयान्, शोकात्मकघटनाः च पश्यामः।

कः तां राज्ञीपदार्थं प्रशिक्षितवान्? कुतः सा राज्यमपालयत्? तां कः दार्शनिकराज्ञी इति अकथयत्? कस्य विमानस्थानकस्य नाम अहल्याबायी इति ख्यातः?

भाग्यवन्तः पञ्च भागिनः डा उदयकुलकर्णी महोदयस्य पुस्तकं लप्स्यन्ते।

पुणेसमीपे वर्तमानस्य कस्य नगरस्य नूतनं नाम अहल्यानगरम् ? सा अस्य नगरस्य समीपे जनिम् अलभत।

अहल्याबायी राजमाता भवतु एतदर्थं महान् मराठानेता श्रीमान् मल्हाररावहोळकरः तस्याः संस्कारम् अकरोत् । अयं मल्हाररावः अहल्याबाय्याः कः?

अहल्याबायी कुत्र राज्यम् अकरोत् ?

कस्य नगरस्य विमानपत्तनं अहल्याबाय्याः नाम्ना विराजते?

अहल्याबाय्याः राज्यभारः अग्रे केन स्वीकृतः?

महाराज्ञ्या अहल्यया महेश्वरप्रदेशे स्थापिते प्रसिद्धोत्पादनस्थाने कस्य उत्पत्तिर्भवति?

अहल्याबायी प्रसिद्धस्य एकस्य ज्योतिर्लिङ्गशिवमन्दिरस्य जीर्णोद्धारणेन सम्बद्धा आसीत्। नूतनीकृतस्य मन्दिरस्य परिसरे साम्प्रतम् तस्याः मूर्तिः स्थापिता। एषः कस्य मन्दिरस्य विषयः ।

बह्व्यः अहल्याबाय्याः वंशस्थस्त्रियः पतिवियोगे सतीप्रथामनुसृत्य सहगमनमकार्षुः। केन अहल्याबायी सहगमनान्निवारिता ?

वीराङ्गना अहल्याबायी एकं विलक्षणं क्लेशदायकञ्च शत्रुमजैषीत्। कः सः शत्रुः।

अहल्यायाः विषये ‘दार्शनिकराज्ञी’ तथा ‘उत्तमशासिका’ इति कः विख्यातः लेखकः अलेखीत् ?

मराठाजनैः विशेषेण अहल्याबाय्या सनातनधर्मस्य कः भागः पुनः सञ्जीवितः।

दानकर्म तथा संरचनात्मककार्यार्थं अहल्याबाय्या कानि तीर्थानि चितानि ?

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In