375

छात्राणां कृते गीता।

अद्य गीताजयन्ती।
मासानां मार्गशीर्षोऽहमिति भगवतः श्रीकृष्णस्य वचांसि प्रसिद्धानि। अस्मिन् मासे शुक्लपक्षस्य एकादश्यां तिथौ गीता जयन्ती आचर्यते। एषा मोक्षदा एकादशी इत्यपि प्रसिद्धा।१ दिसम्बर २०२५ इति आङ्ग्लतिथिः।
श्रीमद्भगवद्गीता सनातनधर्मस्य प्रमुखः ग्रन्थः। अत्युत्कृष्टा तत्त्वयुक्ता इति बहवः विद्वांसः गीतां प्रशंसन्ति। अस्यां प्रश्नमालिकायां गीतायाः केचन वृताः श्लोकाः प्रस्तूयन्ते। श्रीमद्गीभगवद्गीता तु महासागरः वयं च बालाः। दोषेभ्य अतिसौलभ्यार्थं च क्षमां याचामहे। श्लोकानाम् अनुवादाय प्रतिपादनाय च
“Bhagavadgita – Handbook for students” – Rajaji
Translation of Bhagavadgita by Bibek Debroy इति एते पुस्तके उपयुज्येते।
https://www.holy-bhagavad-gita.org/ इत्यस्मात् श्लोकाः तेषां लिप्यन्तरीकरणं च उद्धृतम्।

श्रीकृष्णेन अर्जुनाय मूलतत्त्वमुपादेशि येन विना अर्जुनः स्वस्य दुर्बलस्थितिं जेतुमसमर्थोभूत्। किमेतत् मूलतत्त्वम्।

कर्म इति मुख्यं तत्त्वं श्रीकृष्णेन उपदिश्यते। अस्य कर्मणः संनिकृष्टः अर्थः कः।

गीतया किं त्यक्तुं निवेद्यते।

अर्जुनः श्रीकृष्णं पृच्छति केन प्रयुक्तः अयं पुरुषः बलान्नियोजित इव पापम् आचरति इति।

श्रीकृष्णः मनोनिग्रहार्थं किं साधनं सूचयति।

पापं दृष्ट्वा मनःशान्तेः रक्षणार्थं श्रीकृष्णः मनुष्यान् कथं प्रवर्तितुं वर्णयति।

मनुष्याणां श्रद्धा पूजा च विविधप्रकारकाः सन्ति। श्रीकृष्णः अन्यश्रद्धालून् कथमुपकरोति।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।
एतेन श्लोकेन श्रीकृष्णः कं भावं सूचयति।

गीतायाः मतेन वास्तविकं ज्ञानमित्युक्ते किम् ।

अर्जुनाय श्रीकृष्णेन दत्तस्य महतः विश्वरूपदर्शनस्य कः आध्यात्मिकः अर्थः।

अन्यस्मिन् ग्रन्थे गीतायां यः कर्मयोगः वर्ण्यते तस्य पूर्णसारः उपलभ्यते। कः सः ग्रन्थः।

गीतायां सप्तशतश्लोकाः सन्ति। श्रीमद्भगवद्गीता प्रायः सनातनधर्मस्य अतीव लोकप्रियः ग्रन्थः अस्ति। गीतायाः रीतिः कथं वर्ण्यते।

Special additional lucky draw for Sanskrit language quiz – 3 books (In Sanskrit) as free gift for lucky participants. Please share you details to enter lucky draw.

Privacy Policy and Terms of Service

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In