39

शङ्कर -जयन्ती- प्रश्नावलिः

अद्य, अप्रिल् मासस्य 21 तिथौ, श्रीशङ्करभगवत्पादानां जयन्ती ।श्रीशङ्करभगवत्पादाः अस्मभ्यम् अपरिमितं ग्रन्थालयं दत्तवन्तः | ते अनेकानि भाष्याणि, स्तोत्रकाव्यानि तथा स्वरचितं दर्शनं परिकल्पितवन्तः| तेषां कृतयः प्राचीनकृतीनां बृहद्ग्रन्थालये अन्यतमः ग्रन्थालयः एव | यथा स्वमी चिन्मयानन्दः अवदत्- प्रत्येकस्य मतस्य एकः पवित्रः ग्रन्थः भवति,परं हिन्दूधर्मे -‘मम ग्रन्थालयाय स्वागतम्’ इति वदामि |
अस्यां प्रश्नावल्यां वयं हिन्दूधर्मस्य द्वादश-प्रमुखकृतीनां विहङ्गमदृश्यं दर्शयामः |महासागरे केवलं बिन्दुमात्रम् !
एषा प्रश्नावली द्वे सुन्दरे पुस्तके आधृत्य रचितास्ति | ते -1. दि एस्स्सेन्शियल् सनातन धर्म – शतावधानी डा रा गणेशमहोदयेन लिखितम्, अनुवादः श्री हरिः रविकुमारः 2. व्है वि आर् लैक् दिस् ओन्ली ,ए गैड् टु हिन्दू शास्त्रास् – अमी गणात्रा.

वेदाः विश्वस्य प्राचीनतमाः धर्मग्रन्थाः सन्ति| तेषां सङ्कलनकर्ता कः ?

संस्कृतव्याकरणस्य संहिता २५००वर्षपूर्वं महर्षिणा पाणिनिना रचितम्| अस्य ग्रन्थस्य नाम किम्?

गायत्रीमन्त्रः सूर्यभगवते प्रार्थना अस्ति| गायत्रीमन्त्रे गायत्री इति नाम किमुद्दिश्य दत्तम्?

ज्यौतिषः केवलं नक्षत्रविद्या इति ख्यातिः अस्ति| अस्य सम्यगर्थं किम्?

चाणक्यस्य अर्थशास्त्रं भारतदर्शनानां कस्य अंशस्य विषये अस्ति?

चरक-संहिता एकः पुरातन भारतीयग्रन्थः – अस्य विषयः अद्यत्वे विश्वप्रसिद्धम् अस्ति | कः विषयः ?

नाट्यशात्रं दृश्यकाव्येभ्यः(अन्यकलाभ्योऽपि) पाठ्यम् अस्ति यत् नाट्यवेदात् उद्धृतम् अस्ति |नाट्यवेदस्य देवः कः?

रामायणम् , महाभारतम् च इतिहासौ | इतिहासस्य अर्थः किम्?

महर्षिव्यासः अन्यः सङ्ग्रहः रचितवान् यत्र देवानां, राज्ञां, वंशानां स्थालानां च विषये कथाः सन्ति| कः एषः सङ्ग्रहः?

देवालयनिर्माणस्य तथा पूजाविधीनां कृते विद्याशाखा का अस्ति?

तत्त्वशास्त्रस्य संस्कृत-समानार्थकं दर्शनम् अस्ति | अस्य अर्थं किम्?

वेदान्तस्य आधाराः उपनिशदः | वेदान्तस्य कः अर्थः?

समाप्तिः – हिन्दूग्रन्थालयस्य केवलं विहङ्गमावलोकनम् अस्माभिः कृतम् | वेदाः, त्रयः उपवेदाः ,तथा त्रीणि वेदाङ्गानि ; अपि च इतिहासानां, पुराणानां ,आगमानां,दर्शनानां, वेदान्तस्य च केवलं मूलविचारः अस्माभिः दृष्टः | अस्माभिः बृहत् ग्रन्थालयस्य एकैव निधानिका दृष्टा |
श्रीशङ्कर: एव १८ भाष्याणि, २३ स्वयंकल्पित दर्शनकृतयः तथा ७३ स्तोत्राणि राचितवान् | महापुराणानि ४,००,००० श्लोकयुक्तानि सन्ति| महाभारते ८९००० श्लोकाः सन्ति|
पी.वी.काणे महोदयस्य ‘ धर्मशास्त्रस्य इतिहासः ‘ बृहत् कृतिरस्ति यत्र ६,५०० पुटाः सन्ति| अस्याम् प्रश्नावल्यां वयं अस्य ग्रन्थस्य विषये किमपि न ज्ञातवन्तः | वेदानाम् उपरि द्वितीयस्तरस्य अन्वेषणमापि विस्तारमस्ति |विक्रमे १९३०तः १९४५ संवत्सरपर्यन्तं ३५०० अधिकाः कृतयः सङ्कलिताः (आर्.एन्.दाण्डेकर्)| प्रादेशिक कृतयः अपि अनेकाः आसन्, यथा नारायणीयम् , कम्बरामायणम् च,ये स्वयमेव बृहत्कृती स्तः |
द्वे सुन्दरे पुस्तके अस्मभ्यं हिन्दूग्रन्थालयस्य परिचयं यच्छतः | ते -1. दि एस्स्सेन्शियल् सनातन धर्म – शतावधानी डा रा गणेशमहोदयेन लिखितम्, अनुवादः श्री हरिः रविकुमारः |अस्मिन् एकः संक्षिप्तः २९ पुटैः निर्भरितः अध्यायः अस्ति, यत् हिन्दूधर्मस्य आलम्बितग्रन्थानां सूचयः एव यच्छति| 2. द्वितीयं पुस्तकम् – व्है वि आर् लैक् दिस् ओन्ली ,
ए गैड् टु हिन्दू शास्त्रास् – अमी गणात्रा. एतं विषयमाधृत्य लिखितमस्ति|

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In