कामसूत्रं (ख्रिस्तपूर्वं ४०० – ख्रिस्ताब्दं ३००) पुरुषार्थेषु अन्यतमस्य कामस्य (इच्छायाः सुखस्य च) विवेचकः कश्चन प्राचीनग्रन्थः अस्ति। अस्मिन् ग्रन्थे ‘उदक-क्ष्वेडिका’ (जलसेचनम्) इति प्रधानभूतस्य वसन्तोत्सवस्य वर्णनं वर्तते। कामसूत्रस्य ‘जयमङ्गला’ इति टीकायां स्पष्टीकृतं यत् फाल्गुनमासस्य पूर्णिमायां होलाका इति उत्सवः भवति, यत्र जनाः किंशुक-पलाशपुष्पैः निर्मितं रञ्जितं जलं शृङ्गकैः (पिचकारी) परस्परे क्षिपन्ति, वर्णचूर्णानि च प्रक्षिप्य सर्वेषां शरीरं रञ्जयन्ति। ते ‘शृङ्ग-क्रीडायां’ निमग्नाः भवन्ति, यस्य अर्थः शृङ्गैः शृङ्गकैः वा जलक्रीडा इति। एतादृशस्य एव ‘सेचनक्रीडा’ इति नाम्ना प्रसिद्धस्य उत्सवस्य चित्रणं कर्नाटकस्य द्वादशशताब्द्याः एकस्मिन् मन्दिरे अपि दृश्यते।
Picture Credit: Heritage Labs, 18th Century Radha Krishna