भारते पारम्परिकाः शीतलीकरणविधयः प्रायः गवाक्षेषु द्वारमार्गेषु च उशीरमूलनिर्मिताः जवनिकाः उपयुज्यन्ते। आर्द्रतापन्नाः एताः जवनिकाः बाष्पनिर्माणेन प्रविशन्तं वायुं शीतलीकुर्वन्ति स्म। शैत्यप्रदानेन सह नैसर्गिकः मधुरः सुगन्धोऽपि प्रसार्यते। उशीरकटेभ्यः शीतलीकरणं बाष्पीभवनाधीनं भवति अतः एते आर्द्रताहीनेषु शुष्कप्रदेशेषु एव कार्यसाधकाः। अत एव उत्तरभारते एषां प्रयोगः अधिकः आसीत्। शारीरिकशैत्यार्थं उशीरबीजानां तन्मूलजनितस्य उशीरपानकस्य च उपयोगः अपि क्रियते। दिल्लीनगरे रक्तदुर्गे ‘दीवान-इ-खास’ इति सभाभवनस्य मध्यभागे स्थितं सिंहासनमुभयतः चतुर्मितप्रमाणेन (४ मीटर) दूरे स्थिते द्वे द्वारपङ्क्ती आस्ताम्। ग्रीष्मकाले एते द्वारे सिञ्चितजलैः उशीरकटैः आवृते शीतकाले च स्थूलकम्बलैः प्रालम्ब्येताम्। इदं चित्रं दिल्लीस्थस्य मुगलसिंहासनस्य उपरितनदृश्यस्य रेखाचित्रं अस्ति, यत्र शीतलीकरणाय जलकुल्यानां (जलवाहिकानां) उशीरकटानां च युगपत् प्रयोगोभूत्।
चित्रस्य लेखस्य च स्रोतः – Asif Ali, “Passive Cooling in Mughal Buildings”