नन्दिः इत्युक्ते सुखम्, आनन्दः, तृप्तिः I नन्दिः शिवस्य वाहनम्, शिवस्य धाम्नः कैलाशस्य पालकः I प्रायेण सर्वेषु शिवमन्दिरेषु नन्दिः शिवलिङ्गे एकनिष्ठः सन् शिवस्य पुरतः एव उपस्थितः इव चित्रितः I आत्मनः परब्रह्मणि एकाग्रता दर्शयति I तस्य चत्वारः पादाः सत्यं , धर्मः , शान्तिः , प्रेमः च सूचयन्ति – ये मोक्षस्य मार्गाः वर्तन्ते I शिवस्य वाहनम्, द्वारपालः नन्दिः ध्यान-तितिक्षा-श्रद्धानां च मूर्तिमान् I जीवनस्य उद्देश्यम् ईश्वरसाक्षात्कारः इति भक्तान् स्मारयति I ऋषिशिलादस्य यज्ञात् जातः नन्दिः इति लोकोक्तिः I नन्दिः भगवतः शिवस्य प्रचण्डभक्तः भूत्वा शिवस्य वाहनं भवेयम् इति मध्यप्रदेशस्य जबलपुरे वर्तमानस्य नन्दिकेश्वरमन्दिरस्य नर्मदानद्याः तटे कठोरं तपः चकार I
मूलम्: https://www.exoticindiaart.com
चित्रम् – आन्ध्रप्रदेशे लेपाक्षि-प्रदेशे विद्यमानः बृहत् नन्दिः