165

नवदुर्गाविषयिकी प्रश्नमालिका।

अत्र दुर्गादेव्याः नवरूपाणि विव्रियन्ते।। या देवी सर्वभूतेषु इत्यनेन सर्वभूतेषु स्थितायाः देव्याः निर्माणशक्तिः प्रकृतिरूपा आधिभौतिकी शक्तिश्च निर्दिष्टा। अतः सा असङ्ख्यरूपेषु पूज्यते। देवीमाहात्म्ये नवदुर्गास्तोत्रे च देव्याः नव रूपाणि विव्रियन्ते। नवदुर्गास्तोत्रस्य स्रोतः तु न ज्ञायते। आर्ट् आफ लिविङ्ग् इत्यस्य जालपुटे स्तोत्राणि तेषां व्याख्यानानि च उपलभ्यन्ते।
पूर्वासु प्रश्नमञ्जरीषु इण्डीयात्रा द्वारा बहूनि रूपाणि प्रस्तुतानि। दुर्गापूजायाः बह्व्यः रीतयः मुख्याः शक्तिपीठाः दुर्गासप्तशतीतः कथाश्च प्रदर्श्यन्ते।

दुर्गापूजायाः शुभाशयाः।

नवरात्रस्य प्रथमे दिवसे देवी शैलपुत्री पूजनीया। शैलः इत्युक्ते किम्।

नवदुर्गासु द्वितीयया ब्रह्मचारिण्या किमर्थं कठिनं तपः क्रियते।

चन्द्रः केन रूपेण तृतीयायाः नवदुर्गायाः चण्डिकायाः शिरः अलङ्करोति।

माता कूष्माण्डा कथं जगतः सृष्टिमकरोत्।

पञ्चमरूपायाः स्कन्दमातुः पुत्रः कः।

शिवः देव्याः कात्यायन्याः खड्गं कस्मै अयच्छत्।

मातुः भयङ्करं रूपं कालरात्रिः इति सप्तमे दिने आराध्यते। सा कस्य जन्तोः उपरि उपविशति।

अष्टमा नवदुर्गा महागौरी। गौरी इत्यस्य कोऽर्थः।

यदा माता सिद्धिधात्री शिवेन सह युङ्क्ते तदा शिवशक्त्योः मेलनेन कः देवः जायते।

महाराष्ट्रराज्ये गुजरातराज्ये च लोकप्रसिद्धायां रीत्यां नवरात्रस्य प्रत्येकं दिनं केन सह युज्यते।

तन्त्रसिद्धान्ते नवदुर्गाः शरीरस्थितैः चक्रैः सह युञ्जते। कति चक्राणि सन्ति।

नवरात्रस्य नव दिनानि देव्याः अन्येन रूपत्रयेण सह युञ्जते। तस्य कः क्रमः।

निर्गच्छतु

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In