१९४३ तमवर्षे जुलैमासे नेताजिना “दिल्ली चलो” इति आह्वानं कृतम्। २१ अक्टोबर् १९४३ तमे दिने सः आजाद-हिन्दस्य (स्वतन्त्र-भारतस्य) अस्थायीसर्वकारस्य स्थापनायाः घोषणामकरोत्। सः अस्य सर्वकारस्य अध्यक्षः आसीत्। नागरी तथा सेनायाः आहत्य विंशतिः सदस्याः मन्त्रिमण्डले आसन्। अयं सर्वकारः एकादशराष्ट्रैः मानितः, येषु अधिकांशाः जापानी-सहयोगिनः आसन्।
१९४३ तमवर्षे डिसेम्बरमासे नेताजिना जापानी-नियन्त्रणाधीने अन्दमान्-द्वीपसमूहे प्रतीकात्मकतया भारतीय-ध्वजः उत्तोलितः। एवं सः जापानस्य आश्रित-राष्ट्ररूपेण न, अपि तु सहयोगी-राष्ट्ररूपेण स्वकीयं अधिकारं प्राप्तवान्। ततः सः नवसर्वकारस्य ध्वजं, राष्ट्रगीतं, मुद्रां तथा राज्य-वित्तकोशं च स्थापितवान्। आजाद-हिन्द-मुद्रा १९५२ तमवर्षपर्यन्तं भारतस्य उत्तर-पूर्व-प्रदेशेषु प्रचलिता आसीत्।
तस्य घोषणया राष्ट्रीय-हिन्द-सेनायाः सैनिकाः स्वदेशस्य कृते न्याय्यं युद्धं कुर्वन्ति इति विश्वासः जनमानसे निर्मितः। युद्धोत्तरकाले यदा आजादहिन्दसेनायाः (INA) सैनिकाः न्यायालयेषु परीक्षिताः, तदा एष एव तेषां प्रमुखः तर्कः आसीत्।
अस्मिन् फेसबुक-चित्रे मलयदेशीयं समाचारपत्रम् आज़ाद-हिन्द-सर्वकारस्य विषये प्रकाशिता वार्ता दृश्यते।