भरतेन्दुः हरिश्चन्द्रः वारणासी महाराजस्य धनाधिकारिण: कुटुम्बतः वंशीयः आसीत् | पञ्चवर्षीयः सः ब्रजभाषायां काव्यानां व्याख्यानम् अकरोत् | द्वादशवर्षीयः एषः रसतत्त्वम् नवरसाः न , परं चतुर्दश एव , इति प्रतिपादितवान् | सः क्वीन्स कालेज् मध्ये अधीतवान् | तस्य विलासीजीवनशैली आसीत्, सः वारणासी-वीथिसु साधारणजनैः सह स्वस्य कालं यापयति स्म , तथा धनम्/आर्थिकसाहाय्यम् च उदारतया अकरोत्| सः महाराजस्य हितवचनमपि अमन्यमानः| सः संस्कृतम् ,फारसी,आङ्ग्लभाषाः च अधीतवान् , सप्तदशवर्षे एव कविः इति ख्यातिम् आप्नोत्| सः साम्प्रदायिक भाषाणां विरोधमकरोत्, सः सामन्यजनेभ्यः प्रयुक्तं सरलभाषाम् अङ्गीकृतवान्| सः ‘कविवचनसुधा’ (१८६७)तथा ‘हरिश्चन्द्र चन्द्रिका'(१८७३) इति द्वे पत्रिके आरब्धवान्| एतयोः प्रयुक्ता भाषा संलापोचिता आसीत्| हिन्दी-नाटककृते तस्य योगदानम् अतिमहत्त्वपूर्णम्| अत्र सः हिन्दीसमाजस्य मूलमौल्यानां लक्ष्यम् अकरोत्| सः पाश्चात्य तथा फ़ारसी रङ्गभूमेः प्रतिस्पर्धाम् अकरोत् | हरिश्चन्द्रः वैष्णवसंप्रदायस्य अनुयायी आसीत्|
स्रोतः-रिमेम्बरिङ्ग् भरतेन्दुः हरिश्चन्द्रः , मदन् गोपाल् , इण्डियन् लिटरेचर् | चित्रम् -विकी-मीडिया कामन्स |