त्रिफल इत्युक्ते त्रीणि फलानि। तानि आमलकं हरितकी तथा बिभीतकी। अरबदेशीयाः संस्कृतसदृशं पदं उपयुक्तवन्तः परन्तु चीनदेशीयाः “सान्ङ्ग्- तेङ्ग्” (अर्थः- तिस्रः ओषधयः) इति नाम कृतवन्तः। आयुर्वेदशास्त्रं बहुपूर्वमेव विदेशम् अगच्छत्। रोमन्देशीयाः अकथयन् यत् भारतीयानि औषधानि सर्वोत्तमानि इति। अल् तब्रि अल् किन्दि अल्बरुनि अलन्दलुसि इत्यादयः भारतीयवैद्यान् उद्धरन्ति, विशेषतः चरकस्य नाम। किन्देः पुस्तके 13 प्रतिशतं भागः भारतीयवैद्यकमाधृतः। हिप्पोक्रेट्स्-शपथमिव चीनशपथं लिखितवान् सिमियावः भगवतः बुद्धस्य वैद्यं जीवकम् उद्धरति। जीवकस्य गुरुः निरुपयोगिणम् अनौषधं वनस्पतिम् अन्वेष्टुमकथयत् तदा जीवकः निराशः रिक्तहस्तः प्रत्यागतः यतः ‘नास्ति मूलमनौषधम्।’
Hortus Malabaricus’ (Garden of Malabar) इति पुस्तकस्य विषयः द्रविडदेशस्य वृक्षाः। अस्मिन् 742 वनस्पतीनां वर्णनं चित्राणि च सन्ति, यानि 30 वर्षेषु सङ्कलितानि। एमस्टरडैममध्ये प्रकाशितं पुस्तकमिदं हेन्द्रिक वैन र्हीड इत्याख्यस्य डच-मलबारप्रशासकेन निर्मितम्। इत्ति-अच्युतम् इत्याख्यस्य केरलीयस्य आयुर्वेदवैद्यस्य कार्ये आधारभूतमिदं पुस्तकम्। चित्रं Hortus Malabaricus’ अस्मात् http://www.rcseng.ac.uk/
स्रोतः – Source: Alok Kumar, “Ancient Hindu science”; Corinne Hogan, www.rcseng.ac.uk